मां पार्वती स्तुति:।। Maa Parvati Stuti

105

मां पार्वती स्तुति:

ह्मादय ऊचु:

मां पार्वती स्तुति -त्वं माता जगतां पितापि च हर: सर्वे इमे बालका-स्तस्मात्त्वच्छिशुभावत: सुरगणे नास्त्येव ते सम्भ्रम:।

मातस्त्वं शिवसुन्दरि त्रिजगतां लज्जास्वरूपा यत-स्तस्मात्त्वं जय देवि रक्ष धरणीं गौरि प्रसीदस्व न:।।1।।

त्वमात्मा   त्वं  ब्रह्म  त्रिगुणरहितं  विश्वजननि  स्वयं  भूत्वा  योषित्पुरुषविषयाहो  जगति  च।

करोष्येवं   क्रीडां   स्वगुणवशतस्ते  च  जननीं वदन्ति  त्वां  लोका:  स्मरहरवरस्वामिरमणीम्।।2।।

त्वं स्वेच्छावशत:  कदा  प्रतिभवस्यंशेन शम्भु: पुमा-न्स्त्रीरूपेण शिवे स्वयं विहरसि त्रैलोक्यसम्मोहिनि।

सैव त्वं निजलीलया प्रतिभवन् कृष्ण: कदाचित्पुमान् शम्भुं सम्परिकल्प्य चात्ममहिषीं राधां रमस्यम्बिके।।3।।

प्रसीद  मातर्देवेशि जगद्रक्षणकारिणि ।

विरम त्वमिदानीं तु धरणीरक्षणाय।।4।।

।।इति श्रीमहाभागवते महापुराणे ब्रह्मादयै: कृता पार्वतीस्तुति: सम्पूर्णा।।