भक्ति धर्मस्त्रोतम् मां पार्वती स्तुति:।। Maa Parvati Stuti June 20, 2019 FacebookTwitterPinterestWhatsApp मां पार्वती स्तुति: ह्मादय ऊचु: मां पार्वती स्तुति -त्वं माता जगतां पितापि च हर: सर्वे इमे बालका-स्तस्मात्त्वच्छिशुभावत: सुरगणे नास्त्येव ते सम्भ्रम:। मातस्त्वं शिवसुन्दरि त्रिजगतां लज्जास्वरूपा यत-स्तस्मात्त्वं जय देवि रक्ष धरणीं गौरि प्रसीदस्व न:।।1।। त्वमात्मा त्वं ब्रह्म त्रिगुणरहितं विश्वजननि स्वयं भूत्वा योषित्पुरुषविषयाहो जगति च। करोष्येवं क्रीडां स्वगुणवशतस्ते च जननीं वदन्ति त्वां लोका: स्मरहरवरस्वामिरमणीम्।।2।। त्वं स्वेच्छावशत: कदा प्रतिभवस्यंशेन शम्भु: पुमा-न्स्त्रीरूपेण शिवे स्वयं विहरसि त्रैलोक्यसम्मोहिनि। सैव त्वं निजलीलया प्रतिभवन् कृष्ण: कदाचित्पुमान् शम्भुं सम्परिकल्प्य चात्ममहिषीं राधां रमस्यम्बिके।।3।। प्रसीद मातर्देवेशि जगद्रक्षणकारिणि । विरम त्वमिदानीं तु धरणीरक्षणाय।।4।। ।।इति श्रीमहाभागवते महापुराणे ब्रह्मादयै: कृता पार्वतीस्तुति: सम्पूर्णा।।